________________
स्वोप-लघुवृत्तिः ।
[ ४४५ ग्राम्येति किम् ? रुरवश्चमे रूरवश्चमा इमे रुरवः । अ-शिशु इति किम् ? ____बकर्यश्च वर्कराश्च=बर्कराः । द्वि-शफ इति किम् ?
गर्दभाश्च गर्दभ्यश्च गर्दभाः । सङ्घ इति किम् ?
गोश्वायं गोश्चेयं-इमौ गावौ । प्राय इति किम् ? ___उष्ट्राश्च उष्ट्रयश्च =उष्ट्राः ॥ १२७ ॥ क्लीबमन्येनैकं च वा ।३।१।१२८ । क्लीवनपुंसकं अन्येनाऽक्लीवेन
सहोक्तौ एकः शिष्यते, क्लीवा-क्लीवमात्रभेदे, तच्च शिष्यमाणं एकं
एकार्थं च वा स्यात् ।