________________
स्वोपक्ष-लघुवृत्तिः । ज्ञाने-च्छाऽचार्थेभ्यो
यो वर्तमाने तो यश्च " अद्यर्थाच्चारे"
(५-१-९३ ) इति आधारे क्तः तदन्तेन षष्ठ्यन्तं
न समस्यते । राज्ञां ज्ञातः, राज्ञामिष्टः, राज्ञां पूजितः,
इदमेषां यातम् ॥ ८६ ॥ अ-स्वस्थगुणः । ३।१।८७ ये गुणाः स्वात्मन्येव तिष्ठन्ति, न द्रव्ये ते
स्वस्थाः तत्प्रतिषेधेन अ-स्वस्थगुणवाचिभिः
षष्ठयन्तं
न समस्यते ।