________________
स्वोपश-लघुवृत्तिः ]
[१९७
-
कर्मजा तवा च ।३।१ । ८३ । कर्मणि या षष्ठी तदन्तं कर्तृ-विहिताऽकान्तेन तृजन्तेन च
न समासः स्यात् । भक्तस्य भोजकः, अपां स्रष्टा । कर्मजेति किम् ? गुणो गुणिविशेषकः,
सम्बन्धेऽत्र षष्ठी। कर्तरीत्येव ? पयःपायिका ॥८३ ॥
तृतीयायाम् । ३। १ । ८४ । कर्तरि तृतीयायां सत्यां
कर्मजा षष्ठी न समस्यते । _आश्चर्यों गवां दोहोऽगोपालेन । तृतीयायामिति किम् ?
शब्दानुशासनं गुरोः ॥ ८४ ॥