________________
४१०]
[ हैम-शब्दानुशासनस्य चतस्र इति तिम् ?
अर्द्धन चत्वारो द्रोणाः ॥६६॥ ऊनार्थपूर्वाद्यैः । ३ । १ । ६७ । तृतीयान्तं ऊनार्थेः पूर्वाद्यैश्च
समासस्तत्पुरुषः स्यात् । माषोनं माषविकलं ।
मासपूर्वः, मासावरः ॥ ६७॥ कारकं कृता । ३। १।६८। कारकवाचि तृतीयान्तं कृदन्तेन
समासस्तत्पुरुषः स्यात् । आत्मकृतम् , नवनिभिन्नः,
काकपेया नदी, बाष्पच्छेद्यानि
तृणानि । कारकमिति किम् ?
विद्ययोषितः ॥ ६८॥