________________
४०० ]
आङ इति अव्ययं अल्पार्थं
[ हैम-शब्दानुशासनस्य
नाम्ना सह
समासस्तत्पुरुषः स्यात् ।
आकडारः ।। ४६ ।।
प्रात्पव-परि-निरादयो गत
क्रान्त- कुष्ट ग्लान कान्ताद्यर्थाः प्रथमाद्यन्ते । ३ । १ । ४७ ।
प्रादयो गताद्यर्थाः प्रथमान्तैः,
अत्यादयः क्रान्ताद्यर्था द्वितीयान्तैः,
पञ्चम्यन्तैः
अवादयः कुष्टाद्यर्थास्तृतीयान्तैः, पर्यादयो ग्लानाद्यर्थाचतुर्थ्यन्तैः निरादयः क्रान्ताद्यर्थाः
नित्यं समासस्तत्पुरुषः स्युः ।