________________
स्वोपक्ष-लघुत्तिः ] लक्षणं-चिह्नम् । तद्वाचिनाऽऽभिमुख्याथौ
अभि-प्रती पूर्वपदार्थेऽर्थे
समासोऽव्ययीभावः स्यात् । अभ्यग्नि, प्रत्यग्नि
शलभाः पतन्ति । लक्षणेनेति किम् ?
त्रुघ्नं प्रति गतः । पूर्वपदार्थ इत्येव ? अभ्यङ्का गावः ॥३३॥
दैर्येऽनुः । ३ । १ । ३४ । दैये आयामविषये यल्लक्षणं
तद्वाचिना __ पूर्वपदार्थेऽनुः समासोऽव्ययीभावः स्यात् ।
___ अनुगङ्गं वाराणसी। दैर्ध्य इति किम् ?
वृक्षमनु विद्युत् ॥ ३४॥