________________
३६४ ।
। हैम-शब्दानुशासनस्य
वे । २ । ४ । १००। ङयावन्तस्य त्वे परे बहुलं स्वः हस्यात् ।
रोहिणित्वम् रोहिणीत्वम् ।
अजत्वम्-अजात्वम् ॥१०० ॥ ब्रुवोऽच्च कुंस-कुट्योः ।२।४। १०१। अनयोः परयोः भ्रुवो हूस्वो अत् च. स्यात्
भ्रकुंसः, भ्रुकुंसः । भ्रकुटिः, भृकुटिः ॥ १०१ ॥ मालेषोकेष्टकस्यान्तेऽपि भारित-लचिते । २।४।१०२ । एषां केवलानां अन्तस्थानां च
__ भार्यादिषु परेषु यथासंख्यं
हस्वः स्यात् ।