________________
स्वोपज्ञ - लघुवृत्तिः ]
[ ३३१
वनः पलितः - सितात् । २ । ४ । ३७ ।
'त' इति 'च' इति चानुवर्त्तते आभ्यां स्त्रियां
तद्योगे तः क्नः ।
ङीर्वा स्यात्
पलिक्नी - पलिता |
आसिक्नी - असिता ॥ ३७ ॥
अ- सह - नञ् - विद्यमानपूर्वपदात् स्वाङ्गाद - क्रोडादिभ्यः | २|४|३८|
सहादिवर्जपूर्वपदं यत् स्वाङ्गं
तदन्तात्
क्रोडादिवर्जात्
अदन्तात्
स्त्रियां ङीर्वा स्यात् ।
पीनस्तनी - पीनस्तना ।
अतिकेशी - अतिकेशा माला ।