________________
स्वोपक्ष-लघुवृत्तिः ]
[ ३२३ बिस्तादिवर्जनं किम् ? द्विबिस्ता, द्वयाचिता,
द्विकम्बल्या ॥ २३ ॥ काण्डात् प्रमाणाद-क्षेत्रे । ४ । २४ । प्रमाणवाचि-काण्डान्तात् अ क्षेत्रविषयाद् द्विगोः तद्धितलुकि
स्त्रियां डीः स्यात् । आयामः-प्रमाणम् , द्वे काण्डे प्रमाणमस्याः
द्विकाण्डी रज्जुः । प्रमाणात् इति किम् ?
द्विकाण्डा शाटी । अ-क्षेत्र इति किम् ?
द्विकाण्डा क्षेत्रभक्तिः ॥ २४ ॥ पुरुषाद् वा । २ । ४ । २५ । प्रमाणवाचि-पुरुषान्ताद् द्विगोः
तद्धितलुकि
स्त्रियां ङीर्वा स्यात् ।