________________
स्वोपन-लघुवृत्तिः ]
[ ३१९ मनः । २ । ४ । १४ । मन्नन्तात्
स्त्रियां ___ डीन स्यात् ।
सीमानौ ॥१४॥ ताभ्यां वाऽऽप डित् । २।४ । १५ । मन्नन्ताद् बहुव्रीहेश्च अन्नन्तात्
स्त्रियां आप वा स्यात् ।
स च डित् । सीमे-सुपर्वे । .. पक्षे, सीमानौ, सुपर्वाणौ ॥१५॥
अजादेः । २ । ४ । १६ । अजादेस्तस्यैव स्त्रियां
आप् स्यात् । अजा, बाला, ज्येष्ठा, क्रुश्चा ॥ १६ ॥