________________
२७४ ]
[ हैम-शब्दानुशासनस्य
निसस्तपेऽना सेवायाम् । २ । ३ । ३५ ।
निसः सः तादौ तपतौ परे
ष् स्यात्,
पुनःपुनःकरणाभावे ।
निष्टपति स्वर्ण == सकृदर्शि स्पर्शयतीत्यर्थः ति इत्येव ? निरतपत् ॥ ३५ ॥
। २ । ३ । ३६ ।
घस् - वसः नाम्यादेः परस्य
घस - वसोः सः
प् स्यात् ।
जक्षुः उषितः || ३६ |
णि- स्तोरेवाऽस्वद-स्विद - सहः षणि । २ । ३ । ३७ ।
स्वदादिवर्जानां ण्यन्तानां स्तोरेव च सो नाम्यादेः परस्य