________________
स्वोपज्ञ - लघुवृत्ति: ]
गौणादिति निवृत्तं । दूरेण दूरात्- दूरे- दूरं वा ग्रामस्य - ग्रामाद् वा बसति ।
एवं विप्रकृष्टेत्यादि । अन्तिकेन - अन्तिकात्अन्तिके - अन्तिकं वा ग्रामस्य - ग्रामाद्वा वसति,
[ २५३
एवमभ्याशेनेत्यादि । अ- सच इति किम् ? दूरोsन्तिको वा पन्थाः ॥ १२० ॥ जात्याख्यायां नवैकोऽसंख्यो
बहुवत् । २ । २ । १२१ ।
जातेराख्या=अभिधा,
तस्यां एकः अर्थः असंख्यः=संख्यावाचिविशेषणरहितः
बहुवद् वा स्यात् ।