________________
२५२ ]
[ हैम-शब्दानुशासनस्य
धनेन हेतुना, धनाय हेतवे, धनाद्धेतोः, धनस्य हेतोः, धने हेतौ वा वसति । एवं निमित्ताऽऽदिभिरपि ॥ ११८ ॥ सर्वादेः सर्वाः । २ । २ । ११९ ।
हेत्वर्थे : युक्तात् सर्वादेः
सर्वाः विभक्तयः स्युः ।
का हेतु:, कं हेतुम्,
केन हेतुना, कस्मै हेतवे, कस्माद्धेतोः कस्य हेतोः, कस्मिन् हेतौ वा याति ॥ ११९ ॥ अ- सवारादर्थात् टा ङसि -
य-म् । २ । २ । १२० ।
अ - सच्चssवाचिनो दूरार्थादन्तिकार्थाच्च टा - ङसि - ड्रूय -मः स्युः ।