________________
स्वोपज्ञ - लघुवृत्ति: ]
गवीधुमतः सांकाश्यं चत्वारि योजनानि - चतुर्षु वा योजनेषु ।
[ ૨૪૭
गत इति किम् ?
दग्धेषु लुप्तेष्विति वा प्रतीतौ मा भूत् । गम्य इति किम् ?
गतप्रयोगे माभूत् ।
अध्वन इति किम् ?
कार्तिक्या आग्रहायणी मासे ।
अन्तेनेति किम् ?
अद्य चतुर्षु गव्यृतेषु भोजनम् ||१०७|| षष्ठी वाऽनादरे । २ । २ । १०८ ।
यद्भावो भावलक्षणं तद्वृत्तेरनादरे
षष्ठी वा स्यात् । रुदतो लोकस्य -रुदति लोके वा
प्रात्राजीत् ॥ १०८ ॥
सप्तमी चाऽविभागे
निर्द्धारणे । २ । २ । १०९ ।