________________
स्वोपक्ष-लघुवृत्तिः ]
[ २२५
तद्-भद्राऽऽयुष्य-क्षेमाऽर्था
ऽर्थेनाऽऽशिषि । २ । २ । ६६ । तत् इति हित-सुखयोः परामर्शः । हिताद्यर्थयुक्तात् आशिषि गम्यायां
चतुर्थी वा स्यात् । हितं-पथ्यं वा जीवेभ्यो
जीवानां वा भूयात् । सुख-शं-शर्म वा प्रजाभ्यः
प्रजानां वा भूयात् , भद्रमस्तु श्रीजिनशासनाय
श्रीजिनशासनस्य वा । आयुष्यमस्तु चत्राय-चैत्रस्य वा ।
क्षेमं भूयात् कुशलं-निरामयं वा __ श्रीसङ्घाय-श्रीसङ्घस्य वा । अर्थः-कार्य-प्रयोजनं वा
भूयान्मैत्राय-मंत्रस्य वा ॥ ६६ ॥