________________
२९६ ]
[हम-शब्दानुशासनस्य
परिक्रयणे । २ । २ । ६७ । परिक्रीयते नियतकालं स्वीक्रियते येन
तत्-परिक्रयणं । तस्मिन् वर्तमानात्
चतुर्थी वा स्यात् । शताय-शतेन वा परिक्रीतः ॥ ६७ ॥ शक्तार्थ-वषड्-नमः स्वस्तिस्वाहा-स्वधाभिः ।२ । २ । ६८ । शक्ताथैः वषडादिभिश्च युक्तात् चतुर्थी
नित्यं स्यात् । शक्तः-प्रभुर्वा मल्लो मल्लाय, वषडग्नये,
नमाऽहंद्भ्यः , स्वस्ति प्रजाभ्यः, स्वाहेन्द्राय,
स्वधा पितृभ्यः ॥ ६८॥