________________
२२४
[ हैम-शब्दानुशासनस्य
न त्वा तृणाय-तृणं वा मन्ये । मनस्येति किम् ? न त्वा तृणं मन्वे । अ - नावादिभ्य इति किम् ? न त्वा नावं, अन्नं, शुकं, शृगालं, काकं वा मन्ये ।
कुत्सन इति किम् ?
त्वा रत्नं मन्ये ।
करणाऽऽश्रयणं किम् ? न वा तृणाय मन्ये, युष्मदो मा भूत ।
अतीति किम् ?
त्वां तृणं मन्ये ॥ ६४ ॥ हित - सुखाभ्याम् । २ । २ । ६५ ।
आभ्यां युक्तात् चतुर्थी वा स्यात् । आमयाविने - आमयाविनो वा हितम् । चैत्राय - चैत्रस्य वा सुखम् ॥ ६५ ॥