________________
स्वोपश-लघुवृत्तिः ]
[ २०९ लक्षण-वीप्स्ये-स्थम्भूते
ध्वभिना । २ । २ । ३६ । लक्षण चिह्नम् , वीप्साकर्मवीप्स्यम् ,
इत्थम्भूतः किश्चित्प्रकारमापन्नः, एषु वर्तमानात् अभिना युक्ताद्
द्वितीया स्यात् । वृक्षमभि विद्युत् , वृक्ष वृक्षमभि सेकः,
साधुमैत्रो मातरमभि । लक्षणाऽऽदिष्विति किम् ?
यदत्र ममाभि स्यात् तद् दीयताम् ॥३६।। भागनि च प्रति-पय-नुभिःशश३७॥ स्वीकार्योऽशः भागः तत्स्वामी-भागी.
तत्र, लक्षणादिषु च वर्तमानात् प्रत्यादिभिर्युक्ताद् द्वितीया स्यात् ।