________________
१९२]
[ हैम-शब्दानुशासनस्य
गत्यर्थादीनां इति किम् ? पाचयत्योदनं चैत्रेण मैत्रः न्यादिवर्जनं किम् ?
नाययति भारं चैत्रेण, खादयत्यपूपं मैत्रेण, आदयत्योदनं सुतेन,
ह्वाययति चैत्र मैत्रेण, शब्दाययति बटुं मैत्रेण,
क्रन्दयति मैत्रं चैत्रेण ॥५॥ भक्षेहिसायाम् ।२।२।६। भक्षेः हिंसार्थस्यैव अणिकर्ता
णौ कर्म स्यात । भक्षयति सस्यं बलीवर्दान् मैत्रः । हिंसायाम् इति किम् ?
भक्षयति पिण्डी शिशुना ॥६॥