________________
१८.]
। हैम-शब्दानुशासनस्य
-
अस्ना, असृजा । यूष्णा, यूषेण ।
उद्ना, उदकेन । दोष्णा, दोषा । यक्ना, यकृता । शक्ना, शकृता ॥१०१॥ य-स्वरे पादः पत् अ-णि
क्य-घुटि । २ । १ । १०२ । णि-क्य-घुट्वर्जे यादौ स्वरादौ च प्रत्यये पादन्तस्य
पद् स्यात् । वैयाघ्रपद्यः, द्विपदः पश्य । पादयतेः क्विपि पाद् , पदी कुले ।
य-स्वर इति किम् ? द्विपाद्भ्याम् । अ-णि-क्य-घुटीति किम् ? पादयति ।
व्याघ्रपाद्यति, द्विपादौ ॥१०२ ॥ उदच उदीच । २ । १ । १०३ । अ-णि-क्य-घुटि य-स्वरे
उदच उदीच स्यात् ,