________________
अनवद्य-हित-तथ्याज्ञानुसारिवचनप्रयोगाधीना भाषासमितिः ।
हि
वचनानामनवद्यत्वं, हितत्वं, तथ्यत्वम, आज्ञानु. सारित्वं च न स्वेक्षिकयाऽवसीयते, तदर्थ सद्गुरुनिश्रया विनया-स्मार्थिता-मुमुक्षुभावादिपरिकरितं हि शास्त्रज्ञानमावश्यकम् । शास्रज्ञानमपि सतर्कपरीक्षा-विशिष्टोहापो हादिसमन्वितं क्षेत्रबीजानुपाति समावश्यकम् ।
तदर्थं च भाषाकीयं हि सुदक्षत्वं सम्पादनीयं, तद्धि विना ब्याकरणाध्ययनं न सम्पनीपद्येत ।
अत एव चाऽनुयोगद्वारप्रभृतिषु भाषायां सत्यत्वसंस्कारापादनक्षम-नैकसाधनेषु व्याकरण-परिकर्मितं दक्ष त्वमपि व्यावर्णितमस्ति ।
तदनुपातेन प्रस्तुतं हि कलिकालसर्वज्ञप्रभुकल्पैः श्रीमद्भिः हेमचन्द्राचार्यपादैः परमाहतकुमारपालराजर्षीणां शास्त्र सुदक्षत्वसम्पत्तये विनिर्मितायाः श्रीसिद्धहेमलघुवृत्ते: षट्सहस्रीत्यपराभिधायाः पुस्तकरत्नमिदं प्राक् प्रकाशित. मपि वर्तमाने ह्यनेहसि पिपडीषूणां श्रमण-श्रमणीनां संख्याधिकत्वेन प्रतिदौर्लभ्यादिना च सदध्ययनोपयोगि सम्पादनस्यवि शिष्टपद्धत्या पुनर्मुद्रितं हि समुपदीक्रियते