________________
१४
सुविद्वन्म तल्लजानुशास्ति - सम्पादनबाणां श्रमण-श्रम. णीनां सेवायाम् ।
सम्पादने ह्यस्मिन् चिरत्नाध्ययनाध्यापन-प्रणालिकाsनभिज्ञानामध्येतृणां पाठयितृणां चाध्ययनाध्यापने सुगमता भवेदिति हि लक्ष्यीकृत्य व्यवसितं वर्तते ।
सुविशिष्टपद्धतिं विना हि व्याकरणशास्त्रं न हि सुरुचिकरं भवतीत्यतः रुचि - धृति-धारणी - हशक्तिप्रभृतीनां समुदायं यथायगमवेक्ष्य पृथक्करण - पदार्थ परिसंख्यानप्रयोग सारुप्यादिपद्धतिसनाथं प्रस्तुतं हि व्याकरणं यदि समधीयेत समध्याप्येत वा ! तर्हि सुरसापादनेनाध्येतृणां भाषासमितेः सुदुष्पाल्यत्वस्यापि सुपाल्यत्वे पर्यवसानार्थं व्याकरणाध्ययनं सम्यग् प्रत्यलं भवेदिति संपादकस्यैतत्पंक्तिलेखकस्यानुभूति - भूमिकागतां हि सुदृढ विश्वासः ।
विभागत्रयात्मकस्यास्य सुनिर्धारितस्यायं समासप्रकरणपर्यतो हि प्रथमो विभागः सार्द्धाध्यायद्वयात्मकः दशपादपरिमितः विहारोद्यत - साधुसाध्वी- वहन सौकर्यायापादितः सन् यथामति शक्त्यनुरूपं सज्जीकृत्य प्रस्तूयतेऽध्ययनोद्यतानां संयमिनां पुरतः ।
कृतेऽपि प्रयत्ने छाद्मस्थ्यप्रयुक्ताऽनवधान - सीसका
•