________________
१४२ ।
पादाद्योः । २ । १ । २८ । नियतपरिमाण - मात्राऽक्षरपिण्डः पादः ।
पदात् परयोः पादस्यादिस्थयोः युष्मदस्मदोः वस्नसादिः
नः स्यात् ।
वीरो विश्वेश्वरो देवो, युष्माकं कुलदेवता । स एव नाथो भगवा - नस्माकं पापनाशनः ॥ १ ॥ पादाद्योः इति किम् ?
पान्तु वो देशनाकाले जैनेन्द्रा दशनांशवः । भव कूपपतज्जन्तु - जातोद्धरणरज्जवः ||२|| ||२८|| चाऽह - ह - वै-व-योगे । २ । १ । २९ ।
एभिर्योगे
पदात् परयोः
[ हैम-शब्दानुशासनस्य
युष्मदस्मदोः वस्नसादिः
न स्यात् ।