________________
स्वीपक्ष-लघुवृत्तिः यथासंख्य
त्वम-हमौ स्याताम् । तौ चाक्-प्रसङ्गेऽकः प्रागेव । त्वम् , अहम् ,
अतित्वम् , अत्यहम् । प्राक् चाक इति किम् ?
त्वकम् , अहकम् ॥ १२ ॥ यूयं वयं जस। ।२।१।१३ । जसा सह युष्मद-स्मदोः यथासंख्यं
यूयम्-वयमौ स्याताम् । यूयम् , बयम् ,
प्रिययूयम् , प्रियवयम् । प्राक चाक इत्येव ?
यूयकम् , वयकम् ॥ १३॥ तुभ्यं-मह्यं ङया ।२।१।१४ । ड्या सह युष्मद-स्मदोः यथासंख्य तुभ्यम्-मह्यमौ स्याताम् ।