________________
१२२ ]
[ हैम-शब्दानुशासनस्थ
राजा, राजानौ, राजानः, राजानम् राजानौ ।
वनानि, कर्तृणि । शेष इत्येव ? हे राजन् ! ॥ ८५ ॥ न्-स्महतोः । १। ४ । ८६ । न्सन्तस्य महतश्च स्वरस्य शेष घुटि परे
दीर्घः स्यात् । श्रेयान् , श्रयांसौ ।
महान् , महान्तौ ॥ ८६ ॥ इन्-हन-पूषा-र्यम्णः
शि-स्योः । १।४। ८७ । इन्नन्तस्य हनादेश्व
स्वरस्य शि-स्योरेव परयो
र्दीर्घः स्यात् ।