________________
-
-
१०४
[ हैम-शब्दानुशासनस्य द्विस्वरेति किम् ? हे अम्बाडे ! ।
आप इत्येव ? हे मातः! ॥४३॥ अदेतः स्यमोलुक् ।। ४ । ४४ । अदन्तादेदन्ताच आमन्त्र्यवृत्तेः परस्य
सेरमश्च लुक् स्यात् । हे देव !, हे उपकुम्भ !,
हे अतिहे ! ॥४४॥ दीर्घड्याव-व्यञ्जनात् सेः। १।४।४५। दीर्घझ्यावन्ताभ्यां व्यजनाच परस्य
सेल्क् स्यात् । नदी, माला, राजा । दीर्घति किम् ?
निष्कौशाम्बिः अतिखट्वः ॥४५॥ समानादमोऽतः । १।४। ४६ । समानात् परस्य
अमोऽस्य लुक् स्यात् ।