SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ धात्वनिर्णयः। पम् । अर्थवादवतात्पर्यविषये प्रामाण्यात् । एवं कृत्प्रत्ययस्थले "जजभ्यमानोनुब्रूयान्मयि दक्षकतू" इत्यादौ वाक्यात्पुरुषार्थत्वसिदये कर्नुर्वाच्यत्वमावश्यकमिति नोक्ता प्रतिबन्दिरपीति मी. मांसकानामुत्तरमवशिष्यते । अत्रेदं वक्तव्यम् । कर्तृवाच्यत्वापाच्यत्वाभ्यामुक्तसिद्धान्तसङ्गमस्तस्माच तसिद्धिरित्यन्योन्याअयादसङ्गतमेतत् । किं च । कर्तुराख्यातार्थत्वेषि श्रुतिप्रकरणाभ्यामस्तु ऋतुयुक्तपुरुषधर्मोयं प्रतिषेधः । न च प्रकारणाच्छुतिः कल्प्या तया च विनियोगः कार्यस्तथा च प्रथमत एव श्रुत्या पुरुषार्थत्वनिर्णयेन तावप्यन्वय आकांक्षाविरहादिति वाच्यम् । एवं हि जञ्जभ्यमानवाक्यस्य वाक्यप्रकारणाभ्यां पुरुषसंस्कारमुखेन क्रत्वर्थत्त्वसिद्धान्तः प्रस्थितः स्यात् । यन्तु पुरुषसंस्कारमुखेनानृतवदनस्य क्रत्वर्थत्वे पुरुषांशे ऽनुवादः स्वीकार्यः । ततश्चाविशेषात्विजामप्याध्वर्यवादिसमाख्यया मा. सानां निषेधः स्यादिति । तज्जजभ्यमानवाक्योप समानम् । तत्ष्टापत्ती, प्रकृतपिता को वारयिता। एवं च क्रतुयुक्तपुरुषधर्मतैव । अत एव यदर्था प्रवृत्तिस्तदर्थः प्रतिषेध इत्यपि सङ्गच्छते । वस्तुतः स्युपायमांसभक्षादि पुरुषार्थमपि श्रितः प्रतिषेधः क्रतोरङ्गमिष्टः प्रकरणाश्रयादित्यत्रोक्तनियमे व्यभिचारो भहपादैरेवोक्त इति ध्येयम् । वस्तुतः कर्तृवाच्यत्वेपि क्रियाया एव प्राधान्यात्कर्तुर्गुणभूतत्वाच्चानृतवदननिषेधभावनाया न पुरुषार्थत्वम् । एवं च भावनायाः कैमर्थ्याकाङ्क्षायां प्रकरणाद्भवतामिव शुदं क्रत्वर्थत्वमिति । कृत्प्रत्ययस्थले पुनः कर्तुविशेष्यस्वात्तत्संस्कारमुखेनैव ऋत्वर्थतेति सहृदयराकलनीयमिगत । इदं पुनरिहावशिष्यते । नानृतं वदेोदित्यनारभ्याधीतवचबाहय दर्शपूर्णमासमकरणपवितस्य तानृतं घदेदित्यस्यापि च
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy