SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ वैपाकरणभूषणे सैद्धान्तिकः पन्थाः । नन्वेचंविधः शब्दो पद्यसाधुस्तीतो वो धो न स्यात् । शाब्दबोधे साधुत्वज्ञानस्य कारणत्वात्तदभावनिश्चयस्य प्रतिषन्धकत्वादिति चेन्न । वस्तुतोसाधुत्वपि कारणीभूतसाधुत्वज्ञानसम्भवादित्याभिप्रेत्याह । बोध इति । बोधोस्तु नाम, असाधुत्वं तु स्यादेवेत्यर्थः । अत एव सिद्धे शन्दार्थसम्बन्धे इत्यत्र भाष्यकृतो वदन्ति, "समानायामावगतो साधुभिश्चासाधुभिश्च गम्यागम्योतिवनियमः क्रियत" इति । वस्तुतः साधुत्वज्ञानं न कारणं तदभावनिश्चयश्च न प्रतिबन्धक इत्यसाधुरनुमानेनेत्यत्र वक्ष्यामः । इदं पुनरिहावधेयम् । उक्तरीत्या कर्तुराख्यातार्थत्वे व्याकरणसिद्धान्तसङ्गतावपि दर्शपूर्णमासप्रकरणपठित "नानृतंवददि" तिनिषेधवाक्यस्य क्रत्वर्थ- . त्वं न सिद्धयेत् । तथा च ऋतावपभाषणे क्रतुवैगुण्यनिवारणार्थ प्रायश्चित्तानुष्ठानादिसकलयाजकमीमांसकाादीशष्टाचारविरोधः । तथाहि । नानृतमित्यस्य प्रकरणात्वर्थत्वम् । आख्यातेन कर्तुरुक्तत्वाच्छुत्या च पुरुषार्थत्वम् । तत्र "श्रुतिलिअवाक्यप्रकारणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्यावप्रषांदि" ति न्यायाच्छुतेर्बलवत्त्वात्पुरुषार्थत्वमेव स्यात् । किं च सर्वत्रैव यो यदर्थ प्रवृत्तः सन् निवार्यते स तदर्थमेव प्रतिषिद्धो भवति । आख्यातस्य कर्बर्थत्वे च पदश्रुत्यानृतवदननिषेधः पुरुषार्थ एव स्यादिति नाख्यातार्थः कर्ता । न च कर्तुरवाच्यत्वे लाकर्मणीति सूत्राप्रामाण्यम् । यथा वृद्धिगुणशब्दौ लोकवेदयोरादैजदेडा वाचकत्वेनादृष्टावपि वैयाकरणैः स्वशास्त्रे परिभाषितौ । यथा वासन्नैव लकार उत्पेक्षितस्तथैव कर्वकर्मादिवाचकत्वस्यापि सम्भवात् । यत्र तु न्यायानुगतिस्तत्र लोकवेदयारेपि न तदुक्तार्थपरिग्रहः । न चैतावता स्मृतेरमामा- .
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy