________________
धात्वर्थनिर्णयः ।
कत्वज्ञानाच्छाब्दबोधदर्शनादाख्यातस्यापि भावनायां शक्तिरि
त्याशङ्कायामाह ॥
भेद्यभेदकसम्बन्धोपाधिभेदानिबन्धनम् ।
साधुत्वं तदभावेपि बोधो नेह निवार्यते ॥ २१ ॥
भेद्यं विशेष्यम् । भेदकं विशेषणम् । तयोर्यः सम्बन्धस्तस्य यो भेदस्तन्निबन्धनं साधुत्वमित्यर्थः । अयं भावः । यस्मिविशेष्ये यादृशविशेषणान्विते यादृगानुपूर्व्या सूत्रवार्त्तिकभाष्यकाराद्यन्यतमेन साधुत्वमुक्तं स शब्दस्तत्र साघुरन्यत्रा - साधुरेव । अत एव दन्त्यमध्यो ऽस्वशब्दो ऽश्वे साधुर्न किं तु दरिद्रे साधुः । एवं तालव्यमध्यो ऽश्वशब्दोश्वे साधुर्न दरिद्रे । एवमाख्यातस्य कर्तुरनभिधायकत्वे धातोश्च भावनानभिषायकत्वेऽसाधुत्वमेव स्यात् । व्याकरणेन तथैव साधुत्वबोधनादिति । एवं चास्तु तिङस्तत्र शक्तिः सर्वे सर्वार्था इत्यस्यैव स्वीकारात् । परं तु तत्रार्थे ऽसाधुत्वं स्यादिति । नन्वेतदर्थस्य जैमिनिप्रभृतिभिराचार्यैः साभिनिवेशमुपपादितत्वात्कथं तद्वचसामसाधुतां ब्रूषे इति चेन्न । तेषामत्र तात्पर्याभावात् । व्याकरणस्य च कोशादिवच्छक्तिपरिच्छेदकत्वात् । तथा च पठन्ति । शक्तिग्रहं व्याकरणोपमान कोशाप्तवाक्याद्वयवहारतश्च । वाक्यस्य शेषाद्विवृत्तेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धा इति ॥ तस्मादेतदर्थे व्याकरणं बलीय इति दर्शनान्तराणां पन्थाः । व्याकरणस्य तचदर्थपुरस्कारेण तेषान्तेषां पदानां साधुत्वबोधनार्थमेव मवृत्तिः । तदुक्तं वाक्यपदीये । साधुत्वज्ञानविषया सैषा व्याकरणस्मृतिः ॥ तथा च श्लोकमध्यस्थव्याकरणपदमर्थसिद्धाकथनं, न तु कोशादिवच्छक्तिग्रहार्थमेवं प्रवृत्तिरस्येत्यादिकः
१२