SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ वैयाकरणभूषणे छांशस्य तथान्वययोग्यतायामपि तस्यापि परतन्यस्य विशेष्याकांक्षापूरणसमर्थायां भावनायामेव विशेषातिदेशाध्यायाधिकरणन्यायेनान्वयः। नहि भिक्षुको भिक्षुकान्तरं याचितुमईति सत्यन्यस्मिन्नभिक्षुके इति न्याये ह्याकांक्षाशामकत्वक्सतिरेव बीजम् । ततुल्यमत्रापि । एवं च विशेष्यतासम्बन्धेन कारकप्रकारकशाब्दबोधं प्रति धातुजन्यभावनोपस्थितिः कारणमिति का. र्यकारणभावस्य क्लप्सत्वायत्रापि पक्ता पाचक इत्यादी भावना गुणभूता तत्रापि क्लुप्तकार्यकारणभावानुरोधात्तस्यामेचान्वय: करप्यतइति न फळांशे तदन्वयः । फलांशोपस्थितिरेवास्तु कार काष्ठेनोदनस्य पक्तेत्यादौ क्लुप्तत्वादिति चेन्न । कारकीभूतधात्वर्थस्य भावनायामनन्वयापत्तेः । नहि स्वयमेव स्वकारकम् । विधिवाक्ये धात्वर्थफलांशस्य करणतयान्वयेन तत्र कारकान्वये वाजपेयाधिकरणभापत्या करणान्तरोपसंग्रहेण प्रयोगविघरबोधकतापचेश्च । क्रियान्वयित्वं विना कारकत्वस्यैव दु. पंचत्वाच्च । फलान्वयित्वस्य तत्रैवाव्यानरयोगादित्यादि कारकार्थनिर्णये वक्ष्यते । तस्मात् पाक इत्यादावोदनस्येत्यादिकारकान्वयाय भावनाया वाच्यत्वमावश्यकमिति सिद्धम् । के चित्तु भूतले घटा देवदत्तो घटदेवदत्तेनौदन इत्यादौ क्रियावाचकतत्तत्पदं विना शाब्दबोधस्याकांक्षानिवृत्तेश्चादर्शनानक्रियायोगं विनासाधुत्वम्। न च क्रियारूषार्थाध्याहारेणापि शाब्दबोधाकांक्षानिवृत्त्योः सम्भवान तद्वाचकपदभयोगावश्यकत्वम् । पदजन्यपदार्थोपस्थिसेरेव शाब्दबोधोपयोगित्वात् । पदानां सम्भूयान्वयबोधकत्वव्युत्पत्तेश्चेत्याहुः । एतन्मते पाका सुन्दर इत्यादावयाकांक्षास. स्वाक्रियायोग-विना असाधुतापत्तेः । इष्टापचिर्भाष्यविरुद्धति सहिदां पटर। फलशान्वयलामेनोपपत्तौ भावनान्वयागी
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy