SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ धारवर्षानर्णयः । Lek साधुत्वमष्टकस्यास्य क्रिययैवावधार्यताम् ||१७|| यस्य चेत्येकदेशेन यस्यचभावेनभावलक्षणमिति सूत्रं लक्ष्यते । तत्र भावेनेत्युक्तत्वाद्भावस्य च क्रियात्मकत्वाक्रियायोगं बिना न साधुत्वमित्यर्थः । यथा गोषु दुह्यमानासु गत इति । षष्ठी चेत्यत्रापि षष्ठीचानादरइति सूत्रं लक्ष्यते । अत्रापि चकारात्पूर्वसूत्रस्थं भावेनेत्यायातीत्यर्थः । यथा रुदति रुदतो वा प्रावाजीदिति । साधुत्वमिति । एतत्स्वरूपं त्वसाधुरनुमानेनेत्यत्र वक्ष्यामः । क्रिययैत्रेत्येवकारो ऽयोगव्यवच्छेदार्थः । तथा चैतदष्टकस्य क्रियायोगएव साधुत्वं नान्यथेत्यर्थः । ननु क्रियाशब्दस्य धात्वर्थमात्रे प्रसिद्धेः फलयोगे भवतु साधुत्वलाभः न तु भावनान्वयनियमो लभ्यतइति न तदनुरोधेन पाक इत्यभावनावाच्यत्वं सिध्यतीति चेन्न । भूवादिसूत्रादौ क्रियाशव्दस्य भावनायामेव मसिद्धेः साङ्केतिकी तस्याः शक्तिः फले तु क्रियते इति यौगिकः प्रयोगः । तथा च नावमिकाधिकरणन्यायेनं भावनान्वयएव साधुत्वाख्यानं लभ्यते । रथन्तरं हि यद्यन्यां तदुत्तरयोगयतीति वचनाद्रथन्तरयोनेः परतो बृहद्योनेः पठितत्वात्तस्यां गेयमुतोत्तराग्रन्थे न त्वानां अन्य इत्यस्याः पठितत्वाचस्यामिति संशये विशेषाभावादनियमं प्रापय्योत्तरां ग्रन्थे संज्ञारूपेण प्रसिद्धिः संज्ञाशब्दश्चानपेक्षमवृत्तिर्बलवानिति तत्रैव ग्रेयमित्यूहलक्षणे निरूपितम् । किं च । फलांशोपि भावनायां विशेषणं कारकाण्यपि क्व चित्तथाभूतान्येवेति गुणानां च परार्थत्वादसम्बन्धः समत्वात्स्यादिति न्यायेन भावनामेव विशेष्यतयाङ्गीकुर्वते न गुणभूतं फलांशमिति न तत्रान्वयः । अपि ऋ । कारकाणां चित्यपरन्तत्राणां विशेष्याकांक्षायां धात्वर्थक
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy