SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ भावनिर्णयः । सम्बन्धाधिकारे । धातुसम्बन्धेप्रत्यया इत्यधिकृत्य तेषां विहितत्वात् । यथा भोक्तुं पचतीति । पातुं जकमित्यादौ चानेयमित्याद्यध्याहार्यमेवेत्युक्तप्रायम् । असमस्तनम् । अयं भावः । न त्वं पचसि न युवां पचथः चैत्रो न पचति घटो न जायते इत्यादौ क्रियाया एव निषेधो नया बोध्यते । अत एव विधमानेपि घटे तथा प्रयोगः । तथा च घटो नास्तीत्यादावप्यस्तिस्वाभाव एव बोध्यते । तथा च प्रकारतासम्बन्धेन मयर्थविशेouकबोधे भावनोपस्थितिर्हेतुरिति कार्यकारणभावः । तथा च भूतळे न घट इत्यत्राप्यस्तीत्यध्याहृतक्रियायामेवान्वयः । न तु भूतळाधेयत्वाभाववान्घट इति बोधः । कारकाणां क्रियातिरिक्ते ऽन्वयाभावात् । अत एव अहं नास्मि घटो नास्तीत्यादौ पुरुषव्यवस्था घटा न सन्ति घटौ न स्त इत्यादौ वचननियमचोपपद्यते । युष्मदादेस्तिसामानाधिकरण्यात् । घटाभावस्तीत्यन्वये च स न स्यात् । अत एव सुडनपुंसकस्येत्यत्र नपुंसकस्प नेत्यर्थे न हि नपुंसकेन सामर्थ्य, केन तर्हि, भवतिना । इदं च परैरप्यङ्गीकर्त्तव्यं प्रसव्यपर्युदासयोर्भेदार्थमिति भाष्ये सङ्गच्छतइति । समासे त्वब्राह्मण इतिवद्भवति क्रियायोगं विनापि सात्वमतो ऽसमस्तेति । समासायोग्य इत्यर्थः । प्रसज्यप्रतिषेने इति यावत् । एतेन यजतिषु ये यजामहं करोति नानुयाजेष्टित्यत्र प्रसज्यप्रतिषेधः पर्युदासो वेति संशये अनुपात्तशब्दसम्मन्धे समासापत्तिः । वावचनानर्थक्यं मन्यमानो वार्त्तिककारो न समासादेर्नित्यतां विग्रहेण सह भिन्नार्थतां च मेने । सति हि वाक्यसमासयोरेकार्थ्यं समासनियमाद्वाक्यं निवर्तेतेति तदर्थं विभाषेति सूत्रं कार्य स्यादेव । तस्मादनुयाजपदान्वये सामर्थ्याविद्यातात्समासापत्तिरिति न पर्युदास इति
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy