SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ८१ वैयाकरणभूषणे करीत्या | भाष्यकारानुयायिमस्तु पचति भवतीतस्व शय्यन्ते हतशायिकाः, पश्य मृगो धावती, त्यादावेकसिङभावात्कथमेकवाक्यता कथं वा तिङतिङ इति सूत्रे अतिङन्तात्परस्य पर्युदासः । तिङन्तात्परस्य तिङन्तस्य वाक्यान्तरप्रविष्टतया निघाताप्रवृत्तेः । उक्तं हि वाक्यपदीये । बहुष्वपि तिङन्तेषु साकांक्षेष्वेकवाक्यता । तिङन्तेभ्यो निघातस्य पर्युदासस्तथार्थ - वानिति । तस्मादेकतिविशेष्यकं वाक्यमिति वार्त्तिकमतमभ्युपेयम् । तत्रैकविशेष्यकं वाक्यमित्येवास्तु । तथा च यत्र न निघातस्तत्र तिङ विनाप्युपपत्तेर्न तदध्याहारो युक्तः । अत एव प्रकृतिसिद्धमिदं हि महात्मनामिति शुद्धसुबन्तम् । पचति भवतीिति शुद्धतिङन्तम् । ज्योतिष्टोमेन स्वर्गकाम इति तदुभयसमुदायरूपमिति तत्त्रैविध्यं सङ्गच्छतइति हि वदन्ति । कृत्वोर्थाः । क्रियाभ्यावृतिगणने कृत्वसच इत्यनेन क्रियायोगएव तत्साधुत्वावगमात् । तथा सकृत्पचति द्विः पचतीत्यादि । अत एव घटवत्यादिवद् द्विर्घट इत्यादिकं न भवति । कारकम् । कारके | इत्यधिकृत्य तेषां प्रक्रान्तत्वात् । तत्र च करोतीति कारकमिति योगाश्रयणात्क्रियानन्वयिनो न कारकत्वम् । अत एव ब्राह्मणस्य पुत्रं कृष्णं पृच्छतीत्यत्र ब्राह्मणस्य न कारकत्वमिति स्पशृमाकरे । यद्वा कारकशब्दः क्रियावचनः करोति कर्तृकर्मादिव्यपदेशानिति व्युत्पत्तेः । तथा चाग्रिमेष्वपादानादिसंज्ञाविधिषु क्रियार्यककारकशब्दानुवृत्या क्रियान्वायनामेव संज्ञेति भाव्यादौ स्पष्टम् | प्रथमो वतिः । तेन तुल्यं क्रिया चेद्वतिरित्यनेन विहितः । तत्र यतुल्यं सा क्रिया चेदित्युक्तत्वात् । यथा देवद पतीत्यादि । एवं च चैत्रवरसुन्दर इत्यादौ भवतीत्याद्यध्याहार्यम् । अन्यथा सूत्रे क्रिया चेदित्यनर्थकमेव स्यात् । पा
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy