SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ पात्पर्यनिर्णया। सानुत्यापकतावच्छेदकं च । तत्पतीतिश्चोदाहृतवाक्यपदीय भट्टपादकारिकोदाहृतानुभवादगीकार्या । तथा च क्रियातराकांक्षानुत्थापकतावच्छेदकरूपवत्वं वा कारकान्वयितावच्छेदकरूपवत्वं वा असत्वभूतत्वम् । क्रियान्तराकांक्षोत्थापकतावच्छेदकरूपवत्त्वं वा कारकानन्वयितावच्छेदकरूपवत्वं वा सत्वरूपत्वम् । एवं चासत्वभूता साध्यावस्थेत्यादयो व्यवहारा: प्रसिद्धार्थी एव परन्तु धावतीत्यादौ सिद्धत्वं पश्येत्याखालोचनेन प्रागुक्तरीत्यैवेति मुधीभिरुह्यम् ॥ १५॥ __नन्वस्तु धात्वर्थे एव कारकाणामन्वयो न तु भावनायामेवेति नियमस्तथा च न तदनुरोधेन भावनाया वाच्यत्वं घबादौ सिध्यतीत्याशङ्कां निरसितुमाह ॥ सम्बोधनान्तं कृत्वोर्थाः कारकं प्रथमो वतिः। धातुसम्बन्धाधिकारनिष्पन्नमसमस्तनम् ॥१६॥ सम्बोधनान्तस्य क्रियायामन्वयः। तथा च समर्थसूत्रे वा. तिकम् । एकतिङ् वाक्यामिति । अत्र भाष्यम् । ब्रूहिब्रूहि देवदत्तेति । अत्र वाक्यत्वादामन्त्रितनिघातः सिध्यतीति कैयरः। समानवाक्ये निघातयुष्मदस्मदादेशा इत्यनेन समानवाक्ये एव तद्विधानात् । उक्तं च वाक्यपदीये । सम्बोधनपदं यच्च तत् क्रियाया विशेषणम् । व्रजानि देवदत्तेति निघातोत्र तथा सतीति ॥ के चिन्तु न्यायसिद्धोयमर्थः । तथाहि । सम्बोधनविभक्तेरनुवाद्यविषयत्वादनुवाद्यस्य विधेयसाकांक्षत्वाद्विधेयस्य च क्रियारूपत्वात् क्रियान्वयोर्थायातः । हे देवदत्त त्वं सुन्दर इत्यादौ गुणापि विधेय इति चेत्तथापि क्रियाकांक्षाशान्तये तदध्याहारावश्यकत्वेन तदन्वयसम्भवादित्याहुः । इदं च वार्स
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy