________________
वैयाकरणभूषणे पि न स्यादिति चेन्न । उत्पद्यमानस्यासिद्धस्यैव सर्वत्र भवन कर्तृत्वदर्शनेन तस्यात्रानुकूलत्वात् । अत एव पचति नश्यती. त्यादि न भवति । उक्तं च कैयटेन, "भवतिक्रियापेक्षमेव तस्याः करीत्वं सर्वश्चार्थः स्वेन रूपेण भवतीति भवने कर्तृत्वमुपपन्नमेवे"ति । न चैवमप्यसिद्धस्य दर्शनकर्मत्वासम्भवात्पश्य मृगोधावतीत्यत्र वाक्यार्थक्रियायाः कर्मता न स्यादिति वाच्यम् । नाहि क्रियासमूहो दर्शनकर्म । पिण्डीभूता न निदर्शयितुं शक्येति भाष्यविरोधात् । किं त्ववयवशः । ते तु यथासम्भवं सिद्धा एव कर्म भवन्ति । उक्तं च वाक्यपदीये । तत्र यं प्रति साध्य त्वमसिद्धा तं प्रति क्रिया । सिद्धा तु यस्मिन्साध्यत्वं न तमेव पुनः प्रति ॥ मृगो धावति पश्येति साध्यसाधनरूपतेति । समुदाये कारकान्वयोपयोग्यसिद्धत्वं, प्रत्येकं दर्शनोपयोगि सिद्धत्व. मस्तीत्यर्थः । नन्वेवं यः कृष्णं नमेत्स सुखं यायात् भुक्त्वा तृ. प्यतीत्यादौ नमनभोजनादिक्रियायाः सुखप्राप्तितृप्तिक्रियासापनत्वेनान्वयो न स्यादिति चेन्न । शाब्दं प्राधान्यमादाय वि. शेषणान्वयस्यौत्सर्गिकत्वेपि क्व चिदश्धेन जिगमिषतीत्यादावार्थिकमाधान्यमादाय कारकान्वयवद्यच्छब्दोपस्थाप्योद्देश्यतावशादार्थिकं सिद्धत्वमादाय लिङर्थसाधनत्वान्वयसम्भवात् । एतद्वोधनायैव यच्छब्दादिप्रयोगनैयत्यं तं विना बोधाभावश्च सङ्गच्छते । भुक्त्वेत्यादावपि क्त्वादिद्योत्यधात्वन्तरसम्बन्धस्य पूर्वोत्तरकालादेश्चानुरोधादार्थिकसिद्धत्वमादायैव साधनत्वबोधः । असिद्धस्य पूर्ववृत्तित्वासम्भवात् । भोजनक्रियामुत्पाद्य तृप्यतीति बोधात्तात्पर्यमर्यादया तद्बोधसम्भवात् । क्त्वादौ कि. यान्तराकांक्षोत्थानमप्येतन्मूलकमेवेत्युक्तमायम् । तस्मादुत्पाथत्वमेव करणादिकारकत्वेनानन्वयितावच्छेदकं क्रियान्तराका