SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ धात्वनिर्णयः । 'तीया नपुंसकलिङ्गता च । धात्वर्थभावनायामन्वये ज्योतिष्टोमेन भक्तिपूर्व यजेतेतिवत्प्रथमासम्भवेपि नपुंसकलिङ्गमात्रम् । सामान्ये नपुंसकमित्यस्य दुर्वारत्वात् । घवर्थान्वये तु प्रथमा पुलिङ्गता चेति तद्विभागाय शक्तयन्तरमावश्यकमिति भावः । एतदभिप्रायेणैव कृदभिहितो भावो द्रव्यवत्प्रकाशतइति भाष्यम् । तथा च न भाष्यविरोध इति भावः । उक्तं च वाक्यपदीये, "क्रियायाः सिद्धतावस्था साध्यावस्था च कीर्त्तिता । सिद्धतां द्रव्यमिच्छन्ति तत्रैवेच्छन्ति घन्विधि" मिति । एतेन सङ्ख्यावर्तमानत्वाद्यबोधकानां घनादीनां प्रयोगसाधुतामात्रमिति नैया - यिकनबीनोक्तमपास्तम् । स्तोकः पाक इति सिद्धये तस्यापि शक्तिकल्पनावश्यकत्वात् । यच्च पाक इत्यादिघञन्तशक्त्योपस्थितेन्वये स्तोकः पाक इति । तन्न । समुदायशक्तावुभयोरानुपूर्व्याः शक्ततावच्छेदकत्वापत्तौ गौरवात् । लाघवादनुशासनाच्चास्मदुक्तस्यैव युक्तत्वाच्चेति । ननु साध्यत्वं लिङ्गाद्यनन्वयित्वं तदन्वयित्वं सिद्धत्वम् । तत् त्वदुक्तरीत्यैकस्यां विरुद्धं कथं धातुघञ्स्थले भवेदिति चे, न ब्रूमस्तस्यां लिङ्गाद्यनन्वयम् । किं तु धातूपस्थाप्यायां तदन्वयो न घनाद्युपस्थाप्ये तु स इति । अत एव भावनाशब्दोपस्थाप्ये तदन्वयः सर्वसिद्धः । अत एवं भटपादैरुक्तम् । “ यादृशो भावनाख्याते घात्वर्थश्चापि यादृशः । नासौ तेनैव रूपेण कथ्यते ऽन्यैः पदैः कचि" दिति । वस्तुतस्तु साध्यत्वं च लिङ्गाद्यनन्वायत्वमत्र सम्मतं साध्यत्वेन क्रिया तत्यादौ तृतीया तस्य प्रतीयमानत्वप्रदर्शनात् । " यावत्सिद्धसिद्धं वा साध्यत्वेनाभिधीयत" इति वाक्यपदीये, “यादृशी "भावने" ति भट्टकारिकायां वाच्यत्वेन प्रदर्शनाच्च । नहि लिङ्गानन्वयित्वं वाच्यं प्रतीयते वा किं तु तदन्वयहेत्वभावादार्थिक
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy