________________
७६
वैयाकरणभूषणे स्थापनमेवोच्यते धातुना । अन्यथा शोभनं पचति स्तोकं पचतीतिवच्छोभनं पाक इत्यनापत्तेः । धात्वर्थे साध्यत्वेनोपस्थिते सामानाधिकरण्येनान्वयएव नियमस्तत्र द्वितीया स्यानान्यथा । नन्वेवं द्वितीयां बाधित्वा कर्तृकर्मणोः कृतीति षष्ठी स्यादिति चे, मात्र कर्मणि द्वितीया किं तु विशेषणविभक्तिवदभेदार्था साधुत्वमात्रार्था वा । तत्र स्तोकं पचतीत्यादौ क्लसत्वादन्यस्या ऽनभिधानाच्च द्वितीयैव कल्प्यते । अत एव स्तोकार्थों विना भावनां फलएवान्वेति । कारकत्वे तदसम्भवात् । भवतु वा कर्मत्वमर्थः । अस्तु च षष्ठी । अत एव यत्र करणतया धात्वर्थान्वयस्तत्र सामानाधिकरण्येनान्वये तृतीयैव ज्योतिष्टोमेन यजेतेत्यादौ । इयान्वरं भेदः । फलांशे साध्यत्वेमसत्त्वं च लिङ्गानन्वयित्वमात्रम् । क्रियायां तु करणत्वादिनानन्वयित्वमपीति दिक् ॥ १४ ॥
एतदेव स्पष्टयति ॥ साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना। सिद्धभावस्तु यस्तस्याः स घनादिनिबन्धनः १५
तत्र, घनाद्यन्ते । अत्र प्रतीयतइति शेषः । बोधकमाह । धातुरूपति । क्रियति फलव्यापारोभयसाधारण्येन. साध्यत्वान्वयाय साधारणशब्देन निर्देशः । तान्त्रिकैरनेनोभयोर्व्यवडूियमाणत्वात् । सिद्धभावास्त्विति । न च घत्रादिभिर्व्यापारफलयोः सिद्धत्वेन बोधने मानाभावः । पाकपदात्तथाप्रतीतेरेष मानत्वात् । अन्यथा फलानुत्पाददशायां व्यापाराभिमायण पाको भवति नष्टो वेत्यादिक्रियान्तराकांक्षानापत्तेः । स्तोकः पाक इत्यनापत्तेश्च । तस्मादात्वर्थफलान्वये स्तोकादिशब्देभ्यो द्वि