SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ धात्वनिर्णयः। कर्तृत्वकर्मत्वाभ्यां खाभाव्यादन्वेतीति हि निर्णीतं सरूपसूत्रे सार्वधातुकेयगिति सूत्रे च भाष्यादौ । धादिषु । पाक इ. त्यादौ । अत्र भागाभ्याम् । प्रकृतिप्रत्ययभागाभ्याम् । तत्र प्रकृत्याः सन्त्वरूपाया एवोपस्थितिः । न चात्र मानाभावः । ओदनस्य पाक इत्यादिकर्तृकर्मप्रत्ययानां मानत्वात् । अन्यथा विना क्रियां कारकाणामनन्वयेन तद्वाचकप्रत्ययासम्भवात् । न चाध्याहृततिङन्तार्थक्रियायामेव कारकान्वयः कर्तृकर्मणोः कृतीति कुद्योगषष्ठयभावापत्तेः, नलोकाव्ययनिछाखलर्थतनामिति निषेधेनाध्याहृतक्रियान्वये षष्ठयसम्भवाच । ओदनपाक इत्यादिषष्ठीसमासानापत्तश्च । कुद्योगा च षष्ठी समस्यतइति पाक्यविहितस्यापि षष्ठयसम्भवात्षष्ठयन्तस्य उत्तरपदार्थेनानन्वये भार्या राज्ञः पुत्रो देवदत्तस्येत्यादाविवासामर्थ्याच्चासम्भवात् । समर्थः पदविधिरिति परिभाषणात् । विषेर्वस्त्रकृतिरित्यादौ सावकाशत्वेनानर्थक्यस्याप्यभावात् । न चौदनस्य पाक इत्यादिशेषषष्ठयैव भवेत् । समासोपि तयैवास्त्विति वाच्यम् । नलपाकः शुण्ठीपाक इत्यादिषु कर्तृत्वादिप्रकारकबो. धानुभवानापत्तेः । आश्चर्य गवां दोहो ऽगोपेनेत्यादेसिद्धया. पत्तेश्च । उभयप्राप्तीकर्मणीत्यस्य कर्तृकर्मणोः कृतीति प्राप्तनियमार्थत्वात् । अनन्तरस्यति न्यायात् । उभयपदलिङ्गाच्च । शेषषष्ठयाः सर्वत्राविशेषात् । किं च । शेषषष्ठयैव निर्वाहाभ्युपगमे कर्तृकर्मणोः कृतीति विधिवैयर्थ्यं स्यात् । गतिकारको पपदाकदित्यादिविहितस्वरलाभार्थ तदारम्भ इति चे, चोदनस्य पाक इत्यादावपि स्वरार्थ कारकषष्ठयभ्युपगमो दुर्वारः । एवं रीत्या काष्ठैः पाक इत्यत्रापीष्टापत्तिरेव । एवं चोक्तपूर्वपक्षे इष्टापत्तिरिति भावः । अनया च रीत्या फलमप्यसत्त्वाव
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy