________________
वैयाकरणभूषणे
निरुक्तकारोक्तेरप्यात्मांशस्य धात्वर्थत्वान्न सकर्मकत्वम् । दधातेस्तु धारणमात्रमर्थो न तु तदाश्रयोपीति सकर्मकत्वं सङ्गच्छते । एवं शंसु ध्वंसु अधः पतनइत्यादेरेप्यधोदेशरूपफलाश्रयवाचकत्वादकर्मकत्वम् । पत्ल गतावित्यादेर्गम्यादिवत्संयोगमात्रार्थत्वात्सकर्मकत्वान्नरकपतित इत्यादिद्वितीयासमासोपपत्तिः । तदुक्तं वाक्यपदीये | अन्तर्भावाच्च तेनासौ कर्मणा न सकर्मक इति ॥ तेन । आत्मानमात्मनेतिपूर्वार्धेनोक्तकर्मणा । असौ । अस्तिः कर्म्मको न | अन्तर्भावात् । अस्त्यर्थेन क्रोडीकृतत्वादित्यर्थः । अथैवं जानातीच्छत्यादेः सकर्मकत्वं न स्यात् । धात्वर्थज्ञानजन्यफलस्य घटादावसत्त्वात् । आत्मानं जानातीत्यादौ फलव्यापारयोरेकनिष्ठत्वाच्चेति चेत् । सत्यम् । ज्ञानजन्यफलस्य घटादौ कारकार्थनिरूपणे वक्ष्यमाणत्वात् । आत्मानं जानातीत्यादौ चात्मभेदः कल्प्यते । एकः शरीरावच्छिन्नो ऽपरस्त्वन्तःकरणावच्छिन्नस्तत्रान्तःकरणावच्छिन्नः कर्ता चेच्छरीरावच्छिन्नः कर्म । तथा च फलव्यापारयोर्भिन्ननिष्ठत्वाक्षतेः सकर्मकत्वं नासिद्धम् । एव "मात्मानमात्मना हन्ति सृजत्यात्मानमात्मने" त्यत्रापि शरीरात्मभेदसत्वाल्लक्षणं द्रष्टव्यम् । उक्तं च कर्मवत्कर्मणेति सूत्रे भाष्ये । द्वावात्मानौ शरीरात्मा अन्तरात्मा च । शरीरात्मा तत्कर्म करोति येनान्तरात्मा सुखदुःखे अनुभवति । अन्तरात्मा तत्कर्म करोति येन शरीरात्मा सुखदुःखे अनुभवति इति । मीमांसकास्तूक्तातिप्रसङ्गभियैव प्रकारान्तरे'णाकर्मकत्वसकर्मकत्वविभागं वदन्ति । तथा च भावार्थाधिकर
७२
भट्टपादैरुक्तम् | साक्षादव्यभिचारेण धात्वर्थो यत्र कर्मभाक् । सकर्मकः स धातुः स्यात्पारम्पर्ये त्वकर्मकः । आसनशयनादौ हि आनन्तर्येण नियमेन कर्मविशेषो न निरूप्यतइत्यकर्मकत्वं