SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः । ६९ 1 कर्मकत्वं द्रष्टव्यम् । आत्मविशिष्टधारणादिकमेव व्यापारः । तदेवादाय भूवादय इति लक्षणसङ्गतिः । अस्तु वा तदतिरिक्ततत्फलसमानाधिकरणव्यापारवाचकत्वमस्त्यादेः । न चैवं तत्प्रतीत्यापत्तिः । बाधानवतारदशायामिष्टत्वात् । तदवतारे तेनैव प्रतिबन्धान तथेति न काप्यनुपपत्तिरिति साम्प्रदायिकाः । स्वतन्त्रास्तु, अस्तु तत्र वाघनिश्चयस्तथापि प्रत्ययो नानुपपनः । अत्यन्तासत्यपि शब्दाद्वोघे बाधकाभावात् । तथा च भगवान् पतञ्जलिः। "शब्दज्ञानानुपाती वस्तुशून्यो विकल्प" इति । तदुक्तं विवरणे ऽध्यासलक्षणशेषे “नाप्यध्यस्तमसदेव तथात्वे प्रतिभासायोगादिति टीकाप्रतीकमादाय प्रत्यक्षप्रतिभासो न स्यादित्यर्थः । प्रतिभासमात्र निराकरणे शून्यं न भासतइति वाक्यस्याबोधकत्वप्रसङ्गा" दिति । तथा खण्डनकारोप्याह । अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि । अत एव शशशृङ्गादिशब्दाद्वाधितो ऽपि संसर्गे भासतएवेत्यर्थः । प्रतीतिजनकत्वरूपार्थवत्वात्प्रातिपदिकत्वसिद्धेः समासग्रहणं नियमार्थमित्यत्र नानुपपत्तिः । इत्थं च क्रियावाचकत्वं तद्बोधकत्वमात्रम् । वक्ष्यते च बोधकत्वमेव शक्तिरपि । यत्तु वन्हिना सिञ्चेदित्यत्र बोधादर्शनादयोग्यतानिश्चयः शाब्दबोधे प्रतिबन्धकः स च प्रकृते ऽस्त्येवेति न बोध इति नैयायिकमीमांसकादिभिः परिशीलितः पन्थाः । एकपदार्थ संसर्गे ऽपरपदार्थनिष्ठात्यन्ताभावप्रतियोगित्वाभावादिनानायोग्यताज्ञानं न शाब्दबोध सामान्ये स्वातन्त्र्येण कारणम् । न वा स्वातन्त्र्येण शाब्दबोधे एवैतादृशयोग्यताविरहरूपायोग्यत्वनिश्चयः प्रतिबन्धकः । किं त्वनुमित्यादिसाधारण्येनैव क्लृप्तप्रतिबन्धकीभूतबाधज्ञानादेव न वन्हिनेत्यादौ बोधः । न चैवं शाब्दममायां गुणत्वानुरोधेन योग्यताप्रमा कारणं कल्प्य -
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy