________________
धास्वनिर्णयः। तदाश्रयत्वेनोदनभवादेः कर्तृत्वं चोपपद्यते । पाचयति शिष्ये. ण गुरुः पाचक इत्यादौ प्रत्ययाविशेष्यकभावनाविशेषणकशाब्दबोधस्य धातुप्रत्ययाभ्यामुत्पत्तेरव्याप्तिवारणाय प्रत्ययार्थान्येतीति युक्तम् । एवमपि पश्य मृगो धावति पश्य नृत्यति पचति भवतीत्यादौ धात्वर्थविशेष्यकनृत्यादिभावनाविशेषणकशाब्दबोधाभ्युपगमादव्याप्त्यवारणादिति चेन्न । तद्धात्वर्थाविशेषणत्वविशिष्टविषयतया तद्धातुजन्यशाब्दबोधविषयताफलोपधानस्यैव तद्धात्वर्थभावनात्वात् । न चैवं घटम्भावयतीत्यादौ भवनस्य णिजन्तधात्वर्थविशेषणत्वेपि भवाविशेषणत्वाद् भ्वर्थक्रियात्वमस्त्येवेति तदाश्रयत्वात्कर्तृत्वापत्तिः। इष्टापत्तेः । अत एव गतिबुद्धीति सूत्रेण कर्तुरेव कर्मसंज्ञा विधीयते । अत एव क्रियाभेदादुभयमप्यस्तीति ण्यन्ते कर्तुश्च कर्मण इति भाष्ये उभयथापि व्यवहारः कृतः । न चैवमपि क्रियात्वस्य धातुत्वगर्भतया तस्य क्रियावाचकत्वगर्भस्यान्योन्याश्रयादग्रहणप्रसङ्गः । क्रियात्वघटकधातुत्वस्य जात्यादिरूपत्वात् । भूवादिसूत्रं तु तत्परिचायकमिति प्रागेवोक्तम् । फलत्वमपि तद्धात्वर्थविशेषणत्वे सति तदात्वर्थत्वम् । अतः प्रयोज्यव्यापारस्याणिजन्तधात्वर्थाफलत्वेपि णिजन्तधात्वर्थफलत्वात्तदाश्रयस्य तत्र कर्मत्वमपपद्यते । पश्य मृगो धावतीत्यत्र धावनक्रियाया दृशिफलत्ववारणाय प्रथमं तद्धात्विति तत्पदम् । दृशिफलत्वे च तदाश्रयत्वान्मृगस्य कर्मतापत्तौ द्वितीया दुर्वारा । न च तस्य धात्वर्थभावनाश्रयतया कर्तृत्वात्तत्संज्ञया बाधान कर्मसंज्ञाद्वितीये इति वाच्यम् । पक्त्वोदनो भुज्यते देवदत्तेनेत्यत्रेव प्रधानानुरोधेन कार्यप्रवृत्तेः। प्रधानदृश्यर्थक्रियानुरोधिकर्मसंज्ञाया दुरित्वात् । किं च । स्वकारकविशिष्टा क्रिया दृशिकर्म । तथा च धावनकर्तृत्वानन्तरंह.