________________
धात्वर्थनिर्णयः। मानो व्यापारः । तथा चात्मादिः स्वस्वरूपधारणं करोतीत्य. र्थः । तदुक्तं निरुक्ते । अस्तीत्युत्पन्नस्यात्मधारणमुच्यतइति । नन्वेवमात्मानं धत्तइतिवदात्मानमस्तीत्यपि स्यादविशेषादिति चेत् । अत्र वक्ष्यामः । उक्तं च वाक्यपदीये । आत्मानमात्मना विभूदस्तीति व्यपदिश्यतइति । वस्तुतः किञ्चेत्याधुक्तयुक्त्यनुरोधेनात्राप्याकाशोस्ति आकाश आत्मा वा आसीदिति प्रयोगाद्भावनाया वाच्यत्वमावश्यकम् । किं चास्त्यादावस्तित्वमेव व्यापारः । अवच्छेदकतारूपा व्याप्तिः फलम् । सा च मासादावस्तीति मासमास्ते गोदोहमास्ते क्रोशमास्ते कुरून्त्स्वपिती. त्यादौ मासादेर्धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वं सङ्गच्छते । तथा च मासाद्यवच्छिन्ना स्थितिरित्यर्थः । अत एव द्वितीये भाष्ये "प्राकृतमेवेदं कालादि कर्म यथा घटं करोती" त्याद्युक्तम् । वाक्यपदीये च, कालभावाध्वदेशानामन्तर्भूतक्रियान्तरैः । सर्वैरकर्मकैोगे कर्मत्वमुपजायते इति ॥ प्रधानास्तित्वक्रियापेक्षया धात्वर्थत्वाव्याप्त्यादिकमन्तर्भूतं क्रियान्तरं येषां तेषां सर्वेषां योगे कालादीनां कर्मत्वं भवतीत्यर्थः । मासं पचतीत्यादिसंग्र. हाय सर्वैरिति वार्तिके । अकर्मकैरिति कैमुतिकन्यायेन । मासमास्ते कटे इत्यत्र कटस्य न व्यापनकर्मत्वमिति न ततो द्वितीयेति हेलाराजः । अधिशीङ्स्थासामिति ज्ञापनात्कालभासाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणां, देशश्चेत्यस्य नियमार्थत्वाद्वा नातिप्रसङ्ग इति तत्त्वम् । न चास्यते मास इतिवत्पच्यते मास इत्यापत्तिः । अस्त्यादेः सकर्मकत्वात्पच्यादेरिव भावे लश्च न स्यादिति वाच्यम् । प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणामिति । न के चित्कालभावाध्याभिरकर्मकास्तदेवं विज्ञास्यामः । कचिद्यकर्मका इति च भाष्येणैव दत्तोत्तरत्वात् । उक्तं च वा