SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ वैयाकरणभूषणे नेकाजितिं वार्तिकवचनात्तसिद्धेः । वस्तुतश्चुराधन्ते बहुलमेतनिदर्शनामिति पठितगणसूत्रेण सर्वेषां संग्रहः । तत्र धातुवृत्तिकारादिभिरेतत्मदर्शनं दिक्मदर्शनमात्र प्रयोगानुसारेणान्यपि ज्ञेया इति व्याख्यातत्वात् । तस्मात् क्रियावाचको धातुरिति सिद्धम् ॥ १०॥ - ननु क्रियावाचकत्वे सति गणपठितत्वं तत्त्वमस्तु । क्रिया च न व्यापारः किं तु धात्वर्थ इत्यत आह ॥ धात्वर्थत्वं क्रियात्वं चेद्धातुत्वं च कियार्थता । अन्योन्यसंश्रयः स्पष्टस्तस्मादस्तु यथाकरम् ११ धातुत्वग्रहे च धात्वर्थरूपक्रियात्वग्रहस्तगहे च तद्वाचकत्व. रूपधातुत्वग्रह इत्यन्योन्याश्रय इत्यर्थः । ननु धात्वर्थक्रियेत्यत्र प्रविष्टमन्यदेव धातुत्वं वाच्यं तथा च नान्योन्याश्रय इति चेन्न । मानाभावात् । तदपेक्षया यथाश्रुतस्यैव लघुत्वात् । तदेव धातुत्वमादाय लडाधुपपत्तौ भूवादय इत्यस्य वैयाचेत्याशयेनाह । तस्मादिति । व्यापारसन्तानः क्रिया तद्वाचको धातुरिति यथाकरमित्यर्थः । के चित्तु मीमांसको वैयाकरणं प्रति दोषमाह । धात्वर्थत्वमिति । धात्वर्थत्वं क्रियात्वं यदि ब्रूयास्तदान्योन्याश्रयः स्पष्ट इत्यर्थः । तस्मादिति । आख्यातार्थः क्रिये. त्यध्याहारः । वैयाकरणः समाधत्ते । अस्त्विति । व्यापारस. न्तानः क्रिया तद्वाषको धातुरित्यर्थः । तथा च नान्योन्याश्रय इति व्याचक्षते । वस्तुतस्तु न क्रियावाचकत्वे सति गणपठितत्वं लडादिप्रयोजकम् । क्रियात्वस्यैकस्याभावेनाननुगमात् । किं तु संज्ञाविशेषः संज्ञाशब्दानां जातिवाचित्वपक्षे जातिविशेषो वा तनियामकः । सूत्रं च तत्परिचायकम् । तत्रोक्ताग्रिमकारिकाभिः
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy