SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। पसर्गस्य माङ् मा इति खरायोश्च संग्रहः । न च षत्व. पाठादुपसर्गव्यावृत्तिः । साधसंसिद्धावित्यस्य मूर्धन्यादित्वाय पोपदेशलक्षणवत्वं तत्त्वमित्यन्यत्र निर्णीतत्वात् । तथा च समीचीनवर्जनाद्यर्थे सवति मिमीते मातीत्यापत्तिः पु प्रसवे माङ् माने मा माने इति धातूनां सत्त्वानिर्णयासम्भवात् । न च वेत्याद्यव्ययानां वा गतिगन्धनयोरत्यादिधातुभ्यः किवादिभियुत्पादनं शक्यम् । गमनादिकर्तेत्याद्यर्थत्वापत्तेरीतरत्वानापत्तेश्च । कृदन्तत्वात्सिद्धौ, निपातस्यानर्थकस्योति वार्तिकस्यानुक्तिसम्भवापचेश्चेत्यादि ध्येयम् । न च गतिगन्धनाद्यर्थनिदेशो नियामक इति वाच्यम् । तस्याधुनिकभीमसेनादिभिनिक्षिप्तत्वात् । भीमसेनादयो ह्यर्थ निर्दिदिशुः । पाणिनिस्तु भवेध इत्याद्यपाठीदिति भाष्यवार्तिकयोः स्पष्टम् । के चित्तु उद्दिष्टार्थविशिष्टस्य धातुत्वेलंक्रियते गुरुरित्यादावर्थान्तरे धातुत्वं न स्यात् । तदर्थस्यानुद्देशात् । निपातानां वाचकत्वात्सोर्थों निपातवाच्य इति चेन्न । उपसर्गाणां द्योतकत्वात्तत्रानुपपत्ति. तादवस्थ्यात् । वस्तुतो निपातानामाप द्योतकत्वमेवोत तत्राप्यनुपपत्तिरवति वदन्ति । ननु प्रयोगानुसारतोर्थानां क. ल्प्यत्वे सर्वत्रोद्दिष्टोर्थो व्यर्थ इति चेन्न । क्रियावा. चित्वबोधार्थं तदुद्देशात् । तदुक्तम् । “क्रियावाचित्वमा. ख्यातुमेकैकोर्थः प्रदर्शितः । प्रयोगतोनुसतव्या अनेकार्था हि धातव " इति । कुर्दखुर्दगुर्दगुदक्रीडायामेवेत्येवकारोप्यत्र मानम् । अन्यथा व्यर्थत्वापत्तेः । ननु क्रियावाचकत्वे सति मणपठितत्वस्यैव धातुत्वे सौत्राणां स्तम्भ्वादीनां लौकिकानां च चुलुम्पादीनां धातुत्वं न स्यादिति चेन्न । स्तम्भवादिदित्करणेनैव ज्ञापकबलाचत्सिद्धेः चुलुम्पादीनां च कास्य
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy