SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ५९ धात्वर्थनिर्णयः। त्यादौ स्वर्गकर्तृता प्रयोज्यकर्तुर्न स्यात् । आख्यातार्थव्यापारानाश्रयत्वात् । न चेष्टापत्तिः । तथा सति स्वर्गस्य कर्मत्वानापत्तेः । कर्तुरीप्सिततमत्वस्य कर्मत्वात् । न च प्रयोजककतकर्मत्वमेव स्वर्गस्यास्तां,तथा सति णिजर्थकर्मत्वापत्तौ गमिकमतानापत्तेः। तथा च गत्यर्थकर्मणिद्वितीयाचतुर्थीचेष्टायामनध्वनीति स्वर्गायेति चतुर्थ्यनापत्तेः, पाचयति देवदत्तो विष्णुमित्रेणेत्यत्र विष्णुमित्रस्य कर्तृत्वविरहेण तृतीयानापत्तेश्च । न चेयं करणतृतीयैवेति शक्यम् । तथासति देवत्तस्याहेतुतापत्ती णिजत्पत्त्यसम्भवापत्तेः । तत्प्रयोजकोहेतुश्चति कर्तृप्रयोजकस्यैव हेतुत्वात् । एवं शत्रूणामकर्तृत्वप्यूह्यम् । ण्यन्ते कर्तुः कर्मण इति भाष्यविरोधापत्तेश्च । अकर्तुः कर्मण एव कर्तृपदव्यावत्यत्वात् । न च कर्तुः कर्मण इति भाष्यमसङ्गतमेव संज्ञान्तरानाविष्टे कर्तृपदसङ्केतेनात्रापि प्रयोज्यस्य गतिबुद्धीतिसूत्रेण कर्मसंज्ञाविधानेन कर्तृत्वासम्भवादिति वाच्यम् । शुद्धधात्वर्थव्यापारे कर्तृत्वेपि प्रयोजकव्यापारे कर्मत्वात् । क्रियाभेदेन तयोरविरोधात् । किं च देवदत्तः पाचक इत्यत्राख्याताभावाद्देवदत्तादेः कर्तृत्वं न स्यादित्यायूह्यम् । किं च । फलप्रकारकव्यापारविशेष्यकानुकूलत्वसंसर्गकशाब्दवोधे त्वया धात्वाख्यातयोर्धातुकृतोर्वा आनुपूर्वीहेतुरभ्युपेया । मया च धातोरेवानुपूर्वी तथा वाच्येति लाघवम् । न च तवापि यदाख्यातस्य व्यापारवाचकत्वभूमस्तदा तद्धेतुरभ्युपेयः । धातुशक्तिज्ञानस्यापि कारणत्वे कारणतारूपायां शक्ती व्याकरणस्यैव निर्णायकत्वात् । अन्यथा घटपदस्यापि शक्तिभ्र. मात्पटबोधकत्वेन पटशक्तत्वापत्तेरिति । साधुत्वनिर्णायकं व्याकरणमिति चेत् । शक्तत्वस्यैव साधुत्वस्य व्याकरणाधिकरणे
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy