SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ धात्वनिर्णयः । चोधे इष्टापत्तिरिति चेन । एवं बाकृत्यधिकरणोच्छदापत्तिरित्येकं विकमित्यादौ वक्ष्यामः । वस्तुतो विशेष्यत्वादिबोधस्य तादृशव्युत्पत्यनुसारित्वेन न प्रत्ययार्थत्वादौ प्रमाणता । तथाहि । बोधो व्युत्पत्त्यनुसारी, न च बोधानुसारिणी व्युत्पत्तिः । तथा च तव तादृशव्युत्पत्तिसत्त्वात्तथैव बोधः । अत एव नैयायिकस्य प्रथमान्तविशेष्यक एव बोधः । अत एव लक्षणायां लक्ष्यतावच्छेदकं शक्यतावच्छेदकमेवति स्वीकुर्वन्तो गायां घोषः, "जाता लता हि शैले जातु लतायां न जायते शैलः । सम्प्रति तद्विपरीतं कनकलतायां गिरिद्वयं जातमि" त्यादौ गङ्गात्वलतात्वशैलत्वादिना तीरादेवोंधोत एव चमत्कारोपि । अ.' न्यथा वैपरीत्यं च न स्यात् इत्याहुरालङ्कारिकाः ॥ नैयायिकादयस्तु “कचतस्त्रस्यति वदनं वदनात्कुचमण्डलं त्रसति । मध्यातिभेति नयनं नयनादधरः समुद्विजती" ति ॥ अत्र कचत्वादिना बोधो न वासकर इत्यतोन्यदेव तद्वाच्यम् । अत एव गङ्गापदात्तीरत्वादिनैव बोध इत्याहुः । तस्माद्युत्पत्तिग्रह एवात्र शरणं न नियमः । अत एव भगवान्पाणिनिराह । प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वादिति । अत्र तदशिष्यमित्यनुवर्त्य वचनमित्यत्र योज्यम् । तत्र हेतुरर्थस्येत्यादिः। अन्यप्र. माणत्वात्, लोकत एव व्युत्पत्त्यनुसारेण विशेषणविशेष्यभावेन बोघोपपत्तेरित्यर्थ इति । किं च । यदि नियामकापेक्षा, गृह्यता तार्ह भावधानमाख्यातं सत्त्वप्रधानानि नामानीति निरुक्तवचनम् । इदं हि नामाख्यातोपसर्गनिपातानां चतुर्णा पदानां मध्ये नामाख्यातयोलेक्षणत्वेन प्रवृत्तम् । अत्राख्यायते सर्व. प्रधानभूतो. ऽर्थोननति व्युत्पत्त्या धातुराख्यातपदेनोच्यते । नामादिप्रकृतीनामेवोद्देशात् । अग्रेपि तत्र नामान्याख्यातजानी
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy