SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ५४ वैयाकरणभूषणे ख्यातेषु तत्सम्बन्धादेव गुणभूतकारकमतीतिसिद्धर्म कर्तृकर्मणोरभिधानम् । एवं कत्रोद्यभिधानादेव तदनुपपल्या भावनाया: सिद्धेरनभिधानम् । करोतिसामानाधिकरण्यमपि गम्यमानापे. क्षयैव, यथा पचतिशब्दस्य देवदत्तशब्देन, तथाभूतयैव च कारकसम्बन्धोप्युपपद्यतइति । न च पक्वान् पत्तेत्यादौ कारकयोधीतुकदर्थयोररुणाविकरणन्यायेन परस्परमन्वयास्त्रीकारा. प्रकृतिप्रत्ययार्थयोरन्वयस्यैवाभावे क्व प्राधान्यनियमः सहाथ ब्रूतइति वचश्चेति शंक्यम् । “सम्बन्धमात्रयुक्तं च श्रुत्या धात्वर्थभावयो" रिति वार्तिकोक्तरीत्या सम्बन्धसामान्येनान्वयेन प्राथमिकबोधे च प्राधान्यस्योक्तत्वात् । तस्मादानुवाच्या भावनेति वै. याकरणमतं न साधीय इत्याहुस्तत्र बाधकमाह । न वित्यादिना। नासौ तिडा व्याख्यानं, पक्ववानित्यादावनन्वयापत्तेरित्यर्थः । अयं भावः । प्रकृतिप्रत्ययौ सहाथ ब्रूत इत्यस्य हि विशेष्यतया प्रकृत्यर्थप्रकारको प्रति तदुत्तरप्रत्ययजन्योपस्थितिहेतुरिति कार्यकारणभावः फलितः । एवं च पकवानित्यत्र पांकः कमकारकं क्तवत्वर्थः कर्तृकारकं तयोश्च वक्ष्यमाणरीत्यान्वयासम्भवात्प्रकृतिप्रत्ययार्थयोरन्वयनियमस्यैवाभावे क प्राधान्यवो. धक उक्तो नियमः । न च सम्बन्धसामान्येनान्वयः शङ्कयः । योग्यताविरहात् । क्रियात्वमेव हि कारकान्वयितावच्छेदकमिति वक्ष्यते । तदेतदाविष्कर्तु धात्वर्थक्तवत्वर्थयोः कर्मत्वकर्तृत्वे वि. वरणेन दर्शयति । कृतवान्पाकमिति । वस्तुतः प्रत्ययार्थः प्रधानमित्यत्र या प्रधानं स प्रत्ययार्थ एक । यः प्रत्ययार्थः स प्रधानमेवेति वा न नियमः । अजा छागी पाचिकेत्यादौ व्यभिचारात् । नहि पाचिकेत्यादौ स्त्रीत्वविशेष्यको बोधः कस्प चित् । ननु जातिव्यक्तयोरभेदस्वीकारात्त्रीत्वविशेष्यक
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy