SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। ५३ पपत्तेश्च । न च फलजनकन्यापारस्यैव धात्वर्थत्वात् यत्नस्य चेष्टादिभिरन्यथासिद्धस्य कयं धात्वर्यतेति भ्रमितव्यम् । कुलालयत्नादेर्घटादिजनकत्वानापत्या व्यापारेणान्यथासिद्धत्व स्य सर्वशास्त्रे निराकृतत्वादिति । वक्ष्यते चान्यदुपरिष्टादि. त्यादि सर्वमभिप्रेत्याह ॥ तस्मात्करोतिधीतोः स्यादयाख्यानं न त्वसौ तिङाम पकवान कृतवान्पाकं किं कृतं पक्वमित्यपि ॥८॥ .. तस्मात् । आभिप्रायिकादुक्तहेतोः । धातोरित्यादि । अत्र मीमांसकाः । आख्यातवाच्यैव भावना । भावनार्थककरोतिना विवरणात् । यतूक्तं धातोरेवैतद्विवरणमिति । तन्न । विनिगमकाभावात् । अस्मन्मते व्यापारविशेष्यकबोधानुपपत्तिरेव मानम् । प्रकृतिप्रत्ययौ सहाथ ब्रूतस्तयोः प्रत्ययार्थप्राधान्यस्यान्यत्र क्लप्तत्वात् । तदागमे हि दृश्यतइति न्यायेनाख्यातवाच्यत्वपरिच्छेदाच्च । तदुक्तम् । प्रत्ययार्थ सह ब्रूतः प्रकृतिप्रत्ययौ सदा । प्राधान्याद्भावना तेन प्रत्ययार्थोवधार्यते ॥ तथाक्रमवतोनित्यं प्रकृतिप्रत्ययांशयोः । प्रत्ययश्रुतिवेलायां भावनात्माधगम्यतइति ॥ न चायमुत्सर्गः प्र. प्रकृते नादरणीयः । बाधकामावेन त्यागायोगात् । तदुक्तम् । धात्वर्थस्य प्रधानत्वं न तावदिह जन्मनि । औत्सर्गिको न च न्यायो मत्पक्षे हि निवय॑तीति ॥ अथ भावनाया आख्यातवाच्यत्वे कृत्प्रत्ययस्थले तत्पतीतिर्न स्यात् । वाचकामाचादिति चेन्न। धात्वर्थकारकैर्गम्यमानत्वादेव तस्यास्तत्र प्रतीते। अत एवोक्तम् । धात्वर्थकारकैरेव गुणभूतोवगम्यते । भावना. त्या कृदन्तेषु तस्मात्रैवाभिधीयते ॥ यथैव भावनाप्रधानत्वादा
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy