SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ वैयाकरणभूषणे रबोधकत्वादेव धातूनां सकर्मकत्वाकर्मकत्वविभाग इति वदद्भिर्नैयायिकैरपि तथेति चेत्तर्हि सिद्धमस्मन्मतम् । धातोापारशक्तावेव यत्नस्याप्यनुप्रवेशेन विक्लिन्त्यनुकूलयत्नप्रत्ययसिधेराख्यातस्य स्वातन्येण यत्ने शर्मानाभावाद्वौरवाच सिदयसम्भवात् । नहि पचतीत्यादौ विक्लिन्त्यनुकूलव्यापारानुकूलयत्नवानिति प्रत्यय आनुभविकानां येन तदनुरोधेनाख्यातस्य पृथक्शक्तिः स्यात् । न चैवं यत्नत्वरूपेण बोधो न स्याछ । धात्वर्थव्यापारे फलस्यैवावच्छेदकत्वात् इति शक्यम् । पचतीत्यादावधःसन्तापनफूत्कारादोर्वशिष्यबोधानुरोधेन विशिष्यैव तद्वाच्यत्वकल्पनात् । फूत्कारत्वयत्नत्वादिभिः शक्ती धातो नार्थतापत्तिरिति चेत् । किं कुर्मः, यत्नमात्रांशत्यागेप्यध:सन्तापनत्वफूत्कारत्वचुल्ल्युपरिधारणत्वरूपेण बोधानुरोधेनास्य दुष्परिहार्यत्वात् । नैयायिकनवीनानामाख्यातस्य फलवाच. कत्वपि तदादिन्यायेन नानार्थत्वपरीहारवद्वा अस्याप्युपपत्तेः । एवं च करोतिरपि धात्वंशस्यैव विवरणम् । अत एव पक्ते. सादावपि कृतिबोधाय पृथक् शक्तिर्न कल्प्येत्यतिलाघवं स्यात्। न च पचति पाकं करोतीति विवरणं न स्यात् । कृत्यनुकूलकत्यभावादिति शङ्कयम् । तत्र पाकशब्दस्य विक्लित्तिमात्राभिमायकत्वात् । अत एव फलानुत्पाददशायां पाको जातो नवेति प्रश्ने भविष्यतीत्यपि प्रत्युत्तरं दृश्यते । व्यापारान्तर्भावेण प्रश्न जायतइत्यपि दृश्यते । अत एवोदनस्य पाक इति कर्मकारकान्वयः । अन्यथा भावनाया अनुक्तावनन्वयापत्तेः । कारकाणां क्रियायामेवान्वयस्य वाजपेयाधिकरणसिद्धान्तमूलत्वात् । न चाक्षिप्ततिर्थान्वय इति भ्रमितव्यम् । लादेशयोगे षष्ठया असम्भवस्य वक्ष्यमाणत्वात् । यतते यत्नं करोतीतिवद्विवरणो;
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy