SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ६० वैयाकरणभूषणे त्वात्कर्मसंज्ञा । कर्तुरेव कर्मसंज्ञाविधानात् । एवमाख्याताना स्वार्थव्यापारान्वितकालबोधकत्वमेव । जानातीत्यादावपि ज्ञानाश्रयत्वरूपे तज्जनकमनः संयोगरूपे वा व्यापारएव तदन्वयो न तु धात्वर्थे । एवं चैकस्यैव धातोः फलव्यापारीभयवाचकत्वे नानार्थतादोषोपि परास्तः । भावे विहिसंघवादीनामपि व्यापारवाचकत्वस्वीकारादेव न ग्रामो ग मनवानित्याद्यापत्तिरपि । अत एव ववर्थभावनान्वयादोदनस्य पाक इत्यत्र कर्तृकर्मणोः कृतीति विहिता कर्मणि षष्ठी सङ्गच्छते एवं कर्तुकर्मकृतामपि कारकभावनोभयवाचकत्वादोदनस्य पतेत्याद्यपि नानुपपन्नम् । न चैवं कृतां नानार्थतापत्तौ गौरवापत्तिः धातुभ्यः कृतामल्पतया त्वद्रीत्या बहूनां धातूनां तरकल्पनातो लाघवाक्षतेः । नन्वेवं कृजानात्यादेरकर्मकतापत्तिः धात्वर्थयत्नज्ञानादिव्यधिकरणव्यापारस्य देवदत्तादौ बाधादिति चेन्न । फलतावच्छेदकविषयतासम्बन्धेन यत्नाद्यनधिकरणवृत्तित्वरूपस्य व्यधिकरणत्वस्य तदाश्रयत्वरूपे व्यापारे सत्वात् । यथाश्रुते सकर्मकाणामपि कालिकादिसम्बन्धेन फलसमानाधिकरणव्यापारवाचित्वादकर्मकाणां च सम्बन्धान्तरेण फलव्यधिकरणव्यापारवाचित्व सन्वेनालनकतापत्तेरित्याहुः । तन्न । क्रियते घटः स्वयमेवेत्यनापत्तेः । ज्ञायते घटः स्वयमेवेत्यापत्तेर्वा । विषयतया यत्नस्येव ज्ञानेच्छयोरपि तत्र सस्वात् । घटनिष्टोत्पत्तेरपि कुलालज्ञानेच्छाकृतिजन्यत्वस्याविशिष्टत्वात् । किं च पचति पक्ष्यति पकवानित्यादौ फूस्कारादीनां प्रतीतयेने कप्रत्ययानां तत्र शक्तिर्वाच्येति शक्ततावच्छेदकानन्त्यादनेकशक्तिकल्पनागौरवापत्तिः । अस्माकं पचधातोरैक्यच्छक्येन लाघवम् । किं च फूत्कारादेः प्रत्ययार्थ 1
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy